पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८

पुटमेतत् सुपुष्टितम्
३०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः॥
दक्षिणस्वामुमापुत्रो नैर्ऋत्यां तु गणेश्वरः।
प्रर्ताच्यां विघ्नहर्ताव्याद्वायव्ययां गजकर्णकः।
कौबेर्षा निधिषः पायादीशान्यामीशनन्दनः।
दिवाऽव्यादेकद्न्तस्तु रात्रो सन्ध्यासु विघ्नहृत्।
राक्षसासुरवेतालग्रहभूतपिशाचतः।
पालाङ्कुशधरः पातुरजः सत्त्वतमस्मृतीः
ज्ञानं धर्मच् लक्ष्मीं च लज्जा कीर्ति तथा कुलम्।
सपुर्धनं च धान्यं च गृहदारान्सुतान्सखीन्।
सर्वायुधघरः पौत्रान् मयूरेशोऽवतात्सदा।
कपिलोऽजाविदं यः कण्ठे धारयेत्सुधीः।
नभयं जायते तस्य यक्षरक्षःपिशाचतः॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत्।
यात्राकाले पठेयस्तु निर्विघ्नेन फलं लभेत्।