पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८४

पुटमेतत् सुपुष्टितम्
३७६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

नागाकारो नागाधीशो नागशायी नागप्रियः ॥ ९३
घटोत्सर्वो घटाकारो घण्टावाध्यविशारदः ।
कपालपाणिरम्बेशः कपालाशनशारदः ॥ ९४
पद्मपाणिः करालास्यस्त्रिनेत्रो नागवल्लभः ।
किङ्किणीजालसंहृष्टो जनाशयो जननायकः ॥ ९५
अपमृत्युहरो मायामोहमूलविनाशकः ।
आयुक: कमलानाथः कमलाकान्तवल्लभः ॥ ९६
राज्यदो राजराजेशो राजवत्सदशोभन: ।
डाकिनीनायको नित्यो नित्यधर्मपरायणः ॥ ९७
डाकिनीहृदयज्ञानी डाकिनीदेहनायकः ।
डाकिनीप्राणदः सिद्धः श्रद्धेयचरितो विभुः ॥ ९८
हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः ।
हेमदो नर्मदो मानी नामधेयो नगात्मकः ॥ ९९
वैकुण्ठो वासुकिप्राणो वासुकीकण्ठभूषणः ।
कुण्डलीशो मखध्वंसी मखराजो मखेश्वरः ॥ १००
मखाकारो मखाधीशो मखमालिविभूषणः ।