पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३९

पुटमेतत् सुपुष्टितम्
३१
गणेशकवचम्


युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्रुतम्।
मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि॥ २१
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ २२
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ २३
राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४
इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च तेनाथ माण्डव्याय महर्षये ॥ २५
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्कचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ २७

॥ इति श्रीगणेशपुराणे गणेशकवचं समाप्तम् ॥