पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३९०

पुटमेतत् सुपुष्टितम्
३८२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

घृतपक्वान्नतो वापि व्यञ्जनै रससङ्कुलैः ॥ १४१
पूजयेद्धारयेद्वापि स्तवमेनं सुसाधकः ।
पठेद्वा पाठयेद्वापि यथाविधि सुरप्रिये ॥ १४२
शत्रुतो न भयं तेषां नाग्निचौरास्त्रजं भयम् ।
ज्वरादिसम्भवं चापि संत्यं सत्यं महेश्वरि ॥ १४३
भैरवाराधने शक्तो यो भवेत्साधकः प्रभो।
सदाशिवः सविज्ञेयो भैरवेणेति भाषितम् ॥ १४४
श्रीमद्भैरवराजसेवनविधौ वैयाघ्रमासेदुषः
पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ महासिद्धयः ।
क्षोणीपालकिरीटकोटिमणिरुङ्मालामरैर्भूद्यशो
मौद्ग्यंपादपयोजयोर्निवहते मूर्ध्नि पयस्सिच्यताम् ॥ १४५

इति भैरवतन्त्रे देवीहरसंवादे श्रीवटुकभैरवसहस्रनामस्तोत्रं

     

॥ सम्पूर्णम् ॥