पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३९७

पुटमेतत् सुपुष्टितम्
३८९
आदित्यहृदयम्

महापापहरं देवं तं सूर्यं ... ॥ ७
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं ...॥ ८
सूर्याष्टकं पठेन्नित्यं प्रहपीडाप्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥ ९
आमिषं मधुपानं च यः करोति रवेर्दिने ।
सप्तजन्म भवेद्रोगी जन्मजन्म दरिद्रता ॥ १०
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने ।
न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥

॥ इति श्रीसूर्याष्टकस्तोत्रं सम्पूर्णम् ॥