पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०२

बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


    परं सुरवरं पुरहरं पशुपतिं जनितदन्तिमुख
षन्मुखममुं मृडं कनकपिङ्गळजटं सनकपङ्कजरविं
सुमनसं हिमरुचिं । असङ्गमनसञ्जलधिजन्मगरळं
कबळयन्तमतुलं गुणनिधिं सनन्दवरदं शमित-
मिन्दुवदनं परचिदम्बरनटं हृदि भज ॥ ७
   अजं क्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गिधनुषं
करलसत्कुरङ्ग पृथुटङ्क परसुरुचि कुङ्कुमरुचिं डमरुकं
च दधतम् । मुकुन्दविशिखं नमदवन्ध्यफलदं निगम-
बृन्दतुरगं निरुपमं स चण्डिकममुं झडिति संहृतपुरं
परचिदम्बरनटं हृदि भज ॥ ८
   अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलङ्करुण-
यन्तमखिलं ज्वलन्तमनलं दधतमन्तकरिपुं सतत-
मिन्द्रसुरवन्दितपदम् । उदञ्चदरविन्दकुलबन्धुशत-
बिम्बरुचिसंहतिसुगन्धिवपुषं पतञ्जलिसुतं प्रणव -
पञ्जरशुकं परचिदम्बरनटं हृदि भज ॥ ९