पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ४०५


भण्डासुरादिसंहर्त्री दुष्टान्धकविमर्दनः ।
मधुकैटभसंहर्त्री मधुरापुरनायकः ॥ ८
कालत्रयस्वरूपाढ्या कार्यत्रयविधायकः ।
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः ॥ ९
विशालाक्षी विश्वनाथः पुष्पास्त्रा विष्णुमार्गणः ।
कौसुम्भवसनोपेता व्याघ्रचर्माम्बरावृतः ॥ १०
मूलप्रकृतिरूपाढ्यापरब्रह्मस्वरूपवान् ।
रुण्डमालाविभूषाढ्या लसद्रुद्राक्षमालिकः ॥ ११
मनोरूपेक्षुकोदण्डा महामेरुधनुर्धरः ।
चन्द्रचूडा चन्द्रमौळिर्महामाया महेश्वरः ॥ १२
महाकाळी महाकाळो दिव्यरूपा दिगम्बरः ।
बिन्दुपीठसुखासीना श्रीमदोङ्कारपीठगः ॥ १३
हरिद्रा कुङ्कुमालिप्ता भस्मोद्धूळितविग्रहः ।
महापद्माटवीलोला महाबिल्वाटवीप्रियः ।। १४
सुधामयी विषधरो मातङ्गी मकुटेश्वरः ।
वेदवेद्या वेदवाजी चक्रेशी विष्णुचक्रदः ॥ १५