पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काश्यष्टकम् ४११


यत्र शक्रनगरी तनीयसी यत्र धातृनगरी कनीयसी।
यत्र केशवपुरी लघीयसी विश्वनाथनगरी गरीयसी॥ ६
यत्र देवतटिनी प्रथीयसी यत्र विश्वजननी पटीयसी।
यत्र भैरवकृतिर्बलीयसी विश्वनाथनगरी गरीयसी ॥ ७
विश्वनाथनगरीस्तवं शुभं यः पठेत् प्रयतमानस-
स्सदा । पुत्रदारगृहलाभमव्ययं मुक्तिमार्गमनघं लभे-
त्सदा ॥

॥ इति श्रीवेदव्यासविरचितकाश्यष्टकम् ॥