पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीशिवरक्षास्तोत्रम् ॥


ओं अस्य श्रीशिवरक्षास्तोत्रमहामन्त्रस्य - याज्ञ-
वल्क्यऋषिः - श्री सदाशिवो देवता - अनुष्टुप्
छन्दः - श्री सदाशिवप्रीत्यर्थे श्री शिवरक्षास्तोत्रजपे
विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षा पठेन्नरः ॥ २
गङ्गाधरश्शिरः पातु फालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३
घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कन्धरां शशिकन्धरः ॥ ४
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृत् ॥ ५