पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३

पुटमेतत् सुपुष्टितम्
३५
गणेशमानसपूजा


ततः सुखोष्णेन जलेन चाह-
   मनेकतीर्थाहृतकेन ढुण्ढिम् ।
चित्तेन शुद्धेन च स्नापयामि
   स्नानं मया दत्तमथो गृहाण ॥ १२
ततः पयःस्नानमचिन्त्यभाव
   गृहाण तोयस्य तथा गणेश |
पुनर्दधिस्नानमनामयं त्वं
   चित्तेन दत्तं च जलस्य चैव ॥ १३
ततो घृतस्नानमपारवन्द्य
   सुतीर्थजं विघ्नहर प्रसीद |
गृहाण चित्तेन सुकल्पितं तु
   ततो मधुस्नानमथो जलस्य ॥ १४
सुशर्करायुक्तमथो गृहाण
   स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहन्तृ
   विघ्नेश मायां मम वारयाशु ॥ १५