पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४८३

पुटमेतत् सुपुष्टितम्
४७५
शिवनक्षत्रमालिकास्तोत्रम्


रुद्राक्षमालाभरणस्त्रिपुण्ड्राङ्कितमस्तकः ।
प्रमथेशो महादेवश्शिवएव गतिर्मम ॥ ८
गौरीकान्तो वामदेवो नीलग्रीवो दिगम्बरः।
गङ्गाधरश्चन्द्रचूडश्शिवएव गतिर्मम ॥ ९
मूर्तित्रयस्वरूपाढ्यो गुणत्रयविवर्जितः ।
कार्यत्रयविधाता च शिवएव गतिर्मम ॥ १०
सद्योजातो भैरवश्व मार्कण्डेयवरप्रदः ।
विष्णुचक्रप्रदाता च शिवएव गतिर्मम ॥ ११
अघोरमूर्तिस्सर्वेशो वेदवेद्यो दयानिधिः ।
कपालयुक्तहस्ताब्ज श्शिवएव गतिर्मम ॥ १२
अष्टमूर्तिस्तत्पुरुष स्तथैकादश मूर्तिमान् ।
पञ्चविंशति लीलात्मा शिवएव गतिर्मम ॥ १३
शतरुद्रस्वरूपाढ्यो नन्दिभृङ्गि वरप्रदः ।
सदाशिवोऽनन्तरूपश्शिवएव गतिर्मम ॥ १४
महालिङ्गोद्भवश्शान्तो रुण्डमालाविभूषणः ।
त्रियम्बको विरूपाक्ष श्शिवएव गतिर्मम ॥ १५