पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवमातृकावर्णमालास्तोत्रम् ४९५

कारणग्रामसंहर्त्त्रे कालातीताय वै नमः ॥ २३ खकाराय खपूर्वादि भूतपञ्चकहेतवे । खमूर्ताय खलप्रज्ञा गोचराय नमोनमः ॥ २४ गकाराय गणेशाय गणबृन्दार्चितायच । गङ्गाधराय गुह्याय गुणातीताय ते नमः ॥ २५ घकाराय घनाकार घातकाय घनात्मने । घटादि जगदाकार रहिताय नमोनमः ॥ २६ ङ्काराय ङ्मन्त्रार्थ स्वरूपाय शिवात्मने । ङा ङी ङू संज्ञितार्थाना मगम्याय नमोनमः ॥ २७ चकारायच मन्त्रार्थ स्वरूपायामितात्मने । चमन्त्रार्थनिषण्णानाममृताय नमोनमः ॥ २८ छकाराय छलालस्य छादनादिविशेषतः । छादनच्छन्दनच्छन्न विभागाय नमोनमः ॥ २९ जकाराय जगच्छक्ति स्वरूपाय जयार्थिनाम् । जयप्रदाय देवाय जम्भमोहाय ते नमः ॥ ३० झकाराय झमन्त्रार्थ स्वरूपायामृतात्मने ।