पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीशिवनवरत्नस्तवः ॥

बृहस्पतिः- नमोहाराय देवाय महामायातिशूलिने । तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥ १ नमो मौञ्जाय शुद्धाय नमः कारुण्यमूर्तये । नमो देवाधिदेवाय नमो वेदान्तदायिने ॥ २ नमः पराय रुद्राय सुपाराय नमोनमः । विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ ३ नमो भक्तभवच्छेदकारणायामलात्मने । कालकालाय कालाय कालातीताय ते नमः ॥ ४ जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः । नमःपाषण्डभङ्गाय नमः पापहराय ते ॥ ५ नमः पर्वतराजेन्द्र कन्यकापतये नमः । योगानन्दाय योगाय योगिनां पतये नमः ॥ ६ प्राणायामपराणांतु प्राणरक्षाय ते नमः । मूलाधारे प्रविष्टाय मूलदीपात्मने नमः ॥ ७