पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीजगद्गुरुस्तुति जगद्गुरु वृत्ताष्टकम् ॥

यश्शिष्यहृत्ताप दवाग्निभयनिवारणे महामेघः यश्शिष्य रोगार्ति महाहिविषविनाशने सुपर्णात्मा । यश्शिष्य सन्दोह विपक्षगिरि विभेदने पविस्सोर्च्य: श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ यं शङ्करार्यापररूप इति तपोनिधिं भजंत्यार्याः यं भारतीपुन्तनुरूप इति कलानिधिं स्तुवन्त्यन्ये । यं सद्गुणाढ्यं निजदैवमिति नमन्ति संश्रिता स्सो- कर्यः श्रीसश्चिदानन्द ॥ २ येनाश्रितं सज्जनतुष्टिकर मभीप्सितं चतुर्भद्रम् येनाद्दतं शिष्यसुधीसुजन शिवङ्करं किरीटाद्यम् । येनोद्धृता संयमिलोकनुत महानुभावता सोर्च्यः श्रीसच्चिदानन्द ॥ ३ यस्मैनृपाद्याबिरुदं ददति विभूषणादिकं भक्त्या यस्मैप्रयच्छन्ति मुदा भजक जना नृपोपचारादीन् ।