पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ साधनपश्चकम् ॥

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मनस्त्यज्यताम् । पापौघः परिभूयतां भवसुखे दोषोनुसन्धीयता- मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ सङ्गस्सत्सु विधीयतां भगवतो भक्तिर्दृढा धीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् । सद्विद्वानुपसर्प्यतां प्रतिदिनं तत्पादुके सेव्यतां ब्रह्मै- वाक्षरमर्थ्यतां श्रुतिशिरो वाक्यं समाकर्ण्यताम् ॥ २ वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षस्समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोनुसन्धीयताम् । ब्रह्मैवास्मि विभाव्यतामहरहो गर्वः परित्यज्यतां देहोहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३ क्षुब्द्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्य- तां स्वाद्वन्नं न च याच्यतां विधिवशात्प्राप्तेन सन्तुष्य-