पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ प्रातस्मरणत्रयम् ॥

प्रातस्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् । यत्स्वप्नजागरसुषुप्तिमवैति नित्यं तद्ब्रह्म निष्कळमहं न च भूतसङ्घः ॥ १ प्रातर्भजामि मनसो वचसा मगम्यं वाचो विभान्ति निखिला यदनुग्रहेण । यं नेति नेति वचनैर्निगमा अवोचुः तं देवदेव मज मच्युत माहु रग्र्याः ॥ प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सना- तनपदं पुरुषोत्तमाख्यं । यस्मिन्निदं जगदशेष- मखण्डमूर्तौ रक्षाभुजङ्गम इव प्रतिभाति तं वै ॥ श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रात:काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥

॥ इति श्रीशङ्करभगवत्पादविरचितं प्रातस्मरणत्रयम् ॥