पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

मनीषापञ्चकम् ५२१

ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं सर्वं चैतदविद्यया त्रिगुणया शेषं मया कल्पितम् । इत्थं यस्य दृढा मतिस्सुखतरे नित्ये परे निर्मले चण्डालोऽस्तु सतु द्विजोऽस्तु गुरुरित्येषामनीषामम ॥ शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो- र्नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याजशान्तात्मना । भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ३ या तिर्यङ्नरदेवताभिरहमित्यन्तस्फुटागृह्यते यद्भासा हृदयाक्ष देहविषया भान्ति स्वतोचेतनाः । तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय- न्योगी निर्वृतमानसोऽहिगुरुरित्येषामनीषामम ॥ ४ यत्सौख्याम्बुधि लेशलेशत इमे शक्रादयो निर्वृता यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः । यस्मिन् नित्यसुखाम्बुधौ गळितधीर्ब्रह्मैव नब्रह्मवि- द्यः कश्चित्ससुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५ इति श्रीमच्छङ्कर भगवत्पादविरचितं मनीषा पञ्चकम् ॥