पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ॐ ॥ सद्गुरुसेवा जयति॥ ॥ श्रीचित्सभेशाय मङ्गळम् ॥

श्रीनटेशसहस्रनामस्तोत्र

॥ पूर्वपीठिका ॥

यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशाय तस्मै कारुण्यमूर्तये ॥ ओं कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् । शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ १ विनयावनता भूत्वा पप्रच्छ परमेश्वरी । भगवन् भव सर्वज्ञ भवतापहराव्यय ॥ २ त्वत्तः श्रुतं मया देव सर्वं नामसहस्रकम् । नटेशस्य तु नामानि न श्रुतानि मया प्रभो ॥ ३ असकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि । इदानीं कृपया शंभो वद वाञ्छाभिपूर्तये ॥ ४