पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

नटेशसहस्रनामस्तोत्रम् ५२९

अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ २ कालीवादप्रियः कालः कालातीत: कलाधरः । कालनेता कालहन्ता कालचक्रप्रवर्तकः ॥ ३ कालज्ञः कामदः कान्तः कामारिः कामपालकः । कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ ४ कालकण्ठः कालकालः कालकूटविषाशनः । कृतज्ञः कृतिसारज्ञः कृशानु: कृष्णपिङ्गलः ॥ ५ करिचर्माम्बरधरः कपाली कलुषापहः । कपालमालाभरणः कङ्कालः कलिनाशनः ॥ ६ कैलासवासी कामेशः कविः कपटवर्जितः । कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ ७ कन्दर्पकोटिसदृशः कपर्दी कमलाननः । कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ ८ कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः । स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ॥ ९ उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः ।