पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

५३० बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

सव्यताण्डवसंपन्नो महाताण्डववैभवः ॥ १० ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः । महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ॥ ११ नन्दिनाट्यप्रियो नन्दी नटेशो नदवेषभृत् । कालिकानाट्यरसिको निशानटननिश्चलः ॥ १२ भृङ्गिनाठ्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् । वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ १३ विकाररहितो विष्णुर्विराडीशो विराण्मयः । विराङ्हृदयपद्मस्थो विधिर्विश्वाधिको विभुः ॥ १४ वीरभद्रो विशालाक्षो विष्णुबाणो विशां पतिः । विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ॥ १५ विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः । व्योमकेशो व्योममूर्तिव्योमाकारोऽव्ययाकृतिः ॥ १६ व्याघ्रपादप्रियो व्याघ्रचर्मधृव्द्याधिनाशनः । व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः ।