पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४

पुटमेतत् सुपुष्टितम्
४६
बृहत्स्तोत्ररत्नाकरे प्रथमभागः

राजोपचारान्विविधान्गृहाण
   हस्त्यश्वछत्रादिकमादाराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे
   ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ ५६
दानाय नानाविधरूपकांस्ते
   गृहाण दत्तान्मनसा मया वै ।
पदार्थभूतान् स्थिरजंगमांश्च
   हेरम्ब मां तारय मोहभावात् ॥ ५७
मन्दारपुष्पाणि शमीदलानि
   दूर्वाङ्कुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदरदीनपाल
   गृहाण भक्तं कुरु मां पदे ते ॥ ५८
ततो हरिद्रामबिरं गुलालं
   सिन्दूरकं वे परिकल्पयामि ।
सुवासितं वस्तु सुवासभूतै-
   र्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९