पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

५३८ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

हिरण्यबाहुस्सेनानीः हरिकेशो दिशां पतिः ॥ ७४ सस्पिञ्जरः पशुपतिः त्विषीमानध्वनां पतिः । बभ्लुशो भगवान्भव्यो विव्याधी विगतज्वरः ॥ ७५ अन्नानां पतिरत्युपग्रो हरिकेशोऽद्वयाकृतिः । पुष्टानां पतिरव्यग्रो भवहेतुर्जगत्पतिः ॥ ७६ आततायी महारुद्र: क्षेत्राणामधिपाक्षयः । सूतस्सदसस्पतिस्सूरिरहन्त्यो वनपो वरः ॥ ७७ रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः । कक्षपश्च भुवन्तिश्च भवाख्यो वारिवत्कृतः ॥ ७८ ओषधीशस्सतामीशः उच्चैर्घोषो विभीषणः । पत्तीनामधिपः कृत्स्नवीतो धावत्स सत्वपः ॥ ७९ सहमानस्सत्यधर्मा विव्याधी नियमो यमः । अव्याधिपतिरादित्यः ककुभः कालकोविदः ॥ ८० निषङ्गीषुधिमदिन्द्रः तस्कराणामधीश्वरः । निचरुक: परिचरोऽरण्यानां पतिरद्भुतः ॥ ८१ सृकावी मुष्णतां नाथ: पञ्चाशद्वर्णरूपभृत् ।