पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

न जीवब्रह्मणोर्भेदो नाना रूपेण विद्यते ।
नाम्नो रूपस्य मिथ्यात्वात् इति...॥६४
न जीवब्रह्मणोर्भेदः पिण्डब्रह्माण्डभेदतः ।
व्यष्टेस्समष्टेरेकत्वात् इति ...॥६५
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नाऽपरः ।
जीवन्मुक्तस्तु तद्विद्वान् इति...॥६६
न नामरूपे नियते सर्वत्र व्यभिचारतः।
अनामरूपं सर्वं स्यात् इति...॥६७
अनामरूपं सकलं सन्मयं चिन्मयं परम् ।
कुतो भेदः कुतो बन्धः इति ... ॥६८
न तत्त्वात्कथ्यते लोको नामाद्यैर्व्यभिचारतः।
वटुर्जरठ इत्याद्यै रिति ...॥६९
नामरूपात्मकं विश्वमिन्द्रजालं विदुर्बुधाः ।
अनामत्वादयुक्तत्वात् इति...॥७०
अभेददर्शनं मोक्षः संसाये भेददर्शनम् ।
सर्ववेदान्तसिद्धान्तः इति...॥७१