पुटमेतत् सुपुष्टितम्
५२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः
गणेशपादोदकपानकं च
उच्छिष्टगन्धस्य सुलेपनं तु ।
निर्माल्यसन्धारणकं सुभोज्यं
लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८०
यं यं करोम्येव तदेव दीक्षा-
गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तव पादभक्तं
कुरुष्व मां ब्रह्मपते दयालो॥ ८१
ततस्तु शय्यां परिकल्पयामि
मन्दारकूर्पासकवस्त्रयुक्ताम् ।
सुवासपुष्पादिभिरर्चितां ते
गृहाण निद्रां कुरु विघ्नराज ॥ ८२
सिद्ध्या च बुद्ध्या सहितं गणेशं
सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
ध्यात्वा हृदि ब्रह्मपतिं तदीयः॥ ८३