पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
गणेशबाह्यपूजा


त्वया दतं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् ।
शिखायां धास्याम्येव सदा सर्वप्रदं च तत् ॥ ५५
अपराधानसङ्ख्यातान्क्षमख गणनायक।
भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥ ५६
त्वं माता त्वं पिता मे वै सुहृत्सम्बन्धिकादयः।
त्वमेव कुलदेवश्च सर्व त्वं मे न संशयः ॥५७
जाग्रत्स्वप्रसुषुप्तिभिर्देङ्भानसैः कृतम् ।
सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥५८
बाह्यं नानाविधं पापं महोग्रं तल्लयं ब्रजेत् ।
गणेशपादतीर्थस्य मस्तके धारणास्किल ॥ ५९
पादोदकं गणेशस्य पीतं मयेन तत्क्षणात् ।
सर्वान्तर्गतजं पापं नश्यति गणनातिगम् ।।६०
गणेशोच्छिष्टगन्धं वै.द्वादशाङ्गेषु चर्चयेत् ।
राणेशतुल्यरूपः स दर्शनात्सर्वपापहा ॥६१
यदा गणेशपूजादौ गन्धभस्मादिकं चरेत् ।
अथुवोच्छिष्टगन्धं तु नो चेत्तत्र विधि वरेतु ॥ ६२