पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत् ।
तेन सोऽपि गणेशेन समो भवति भूतले ॥६३
मूर्ध्नि गाणेश्वरं चादौ ललाटे विघ्ननायकम् ।
दक्षिणे कर्णमूले तु वक्रतुण्डं संमर्चयेत् ॥ ६४
वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् ।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५
बाहौ दक्षिणके चैव हेरम्ब वामबाहुके ।
विकट नाभिदेशे तु विघ्ननाथं समर्चयेत् ।। ६६
कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् ।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७
सर्वाङ्गलेपनं शस्तं चित्रितं त्ताष्टगन्धकैः
गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ।।६८
ततः शिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्तिमुक्तिप्रदं पूर्ण नानापापनिकृन्तनम् ।।६९
गणेशस्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासः सदा मेऽस्तु गजानन ॥ ७०
. ।