पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
गणेशबाह्यपूजा

गार्ग्य उवाच-
एवं गृत्समदश्चैव चकार बाह्यपूजनम् ।
त्रिकालेषु महायोगी सदा भक्तिसमन्वितः॥ ७१
तथा कुरु महीपाल गाणपत्यो भविष्यति । .
यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥४२
॥ इति श्रीमदास्ये मौद्गल्ये बाह्यपूजा समाप्ता ॥