पृष्ठम्:बृहद्देवता.djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

BRHADDEVATā vi. 110 [-RV. viii. 96 २०॥ त्रीण्याश्विनान्या म इति ऐन्द्राणि समितीति च ॥९॥ अपालात्रिसुता त्वासीत् कन्या त्वग्दोषिणी पुरा । तामिन्द्रश्चकमे दृष्ट्वा विजने पितुराश्रमे ॥ ९९ ॥ तपसा बुबुधे सा तु सर्वमिन्द्रचिकीर्षितम् । उदकुम्भं समादाय अपामर्थे जगाम सा ॥१०० ॥ उदष्ट्वा सोममपामन्ते तुष्टावची वने तु तम् । Bकन्या वारिति चैतस्याम् एषोऽर्थः कथितस्ततः ॥ १०१ ॥ सा सुषाव मुखे सोमं [B सुत्वेन्द्रं चाजुहाव तम् । असौ य एषीत्यनया] पपाविन्द्रश्च तन्मुखात् ॥१०२॥ अपूपांश्चैव सक्तूंच भक्षयित्वा स तद्गृहात् । ऋग्भिस्तुष्टाव सा चैनं जगादैनं तृचेन तु ॥१०३ ॥ सुलोमामनवद्याङ्ग कुरु मां शक्र सुत्वचम् | Bतस्यास्तवचनं श्रुत्वा प्रीतस्तेन पुरंदरः ॥१०४ ॥ रथछिद्रेण तामिन्द्रः शकटस्य युगस्य च । प्रक्षिप्य निश्चकर्ष चिः सुत्वक् सा तु ततोऽभवत् ॥ १०५ ॥ 73] तस्यास्त्वगपहता या पूर्वी सा शल्यकोऽभवत् । उत्तरा त्वभवद्रोधा कृकलासस्त्वगुत्तमा ॥१०६ ॥ ॥ इतिहासमिदं सूक्तम् आहतुर्यास्कभागुरी | कन्येति शौनकस्त्वैन्द्रं पान्तमित्युत्तरे च ये ॥१०७ ॥ Bउत्तमा त्वार्भवी प्रोक्ता उत्तरस्यैतरेयके | Bछान्दोमिके तृतीये तद् आर्भवं शस्यते यतः ॥१०४॥ मारुतं गौः परं सूक्तम् आ वैन्द्राणि पराणि षट् । Bसूक्ते द्वितीय एतेषाम् इतिहासं प्रचक्षते । अपक्रम्य तु देवेभ्यः सोमो वृत्रभयार्दितः ॥१०९ ॥ नदीमंशुमतीं नाम्ना अभ्यतिष्ठत्कुरून्प्रति | L २१॥ २२॥