RV. viii. 96–] BRHADDEVATĀ vi. 110— नं बृहस्पतिनैकेन अभ्ययावृत्रहा सह ॥ ११०॥ योत्स्यमानः सुसंहृष्टैर् मरुद्भिर्विविधायुधैः । दृष्ट्वा तानायतः सोमः स्वबलेन व्यवस्थितः ॥१११॥ मन्वानो वृत्रमायान्तं जिघांसुमरिसेनया | व्यवस्थितं धनुष्मन्तं तमुवाच बृहस्पतिः ॥११२॥ मरुत्पतिरयं सोम एहि देवान्पुनर्विभो । B श्रुत्वा देवगुरो वाक्यम् अनर्थ वृत्रशङ्कया ॥ ११३॥ सोऽब्रवीत्रेति तं शक्रः स्वर्ग एव बलाइली । इयाय देवानादाय तं पपुर्विधिवत्सुराः ॥११४ ॥ जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव । तदेतदप्य वेत्यस्मिंस् तृचे सर्व निगद्यते ॥११५ ॥ Bइन्द्रं च मरुतश्चैव तथैव च बृहस्पतिम् । तृचस्य देवता ह्येता इन्द्रमेवाह शौनकः ॥११६ ॥ B ऐन्द्राबार्हस्पत्य उक्तो ब्राह्मणे त्वैतरेयके | [74 २३॥ तृचेनेन्द्रमपश्यंस्तं नेमोऽयमिति भार्गवः ॥११७॥ तुष्टावेन्द्रो वृचेनायम् अहं पश्य च मामृषे । Bस हि स्तुवन्नेमै एको नेन्द्रो अस्तीति चाब्रवीत् ॥११७॥ २४॥ B तदा कर्येन्द्र आत्मानम् ऋग्भ्यां तुष्टाव दर्शयन् । ऋषिस्तं दृष्ट्वा सुप्रीतो विश्वेता न इति इचे ॥ ११९ ॥ विविधानि च कर्माणि दानमैन्द्रं च शंसति । मनोजवास्तु सौपर्णी समुद्रे वज्रसंस्तवः ॥ १२० ॥ वाचं सर्वगतां देवीं स्तौति यज्ञागिति हृचे । चींल्लोकानभितप्येमान् वृत्रस्तस्थौ स्वया त्विषा ॥१२१॥ तं नाशकद्धन्तुमिन्द्रो विष्णुमभ्येत्य सोऽब्रवीत् । वृत्रं हनिष्ये तिष्ठस्व विक्रम्याद्य ममान्तिके ॥ १२२॥
पृष्ठम्:बृहद्देवता.djvu/१०५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति