पृष्ठम्:बृहद्देवता.djvu/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

77] —BRHADDEVATĀ vi. 159 RV. x. सप्ताग्नेयानि सूक्तानि ददर्शीय इति चितः । प्र केतुनेति त्वाष्ट्रस्तु त्रिशिराः सूक्तमुत्तरम् ॥१४७॥ ऋचस्वस्य षळाग्नेय्यस् तृचस्त्वस्येति यः परः । तेनेन्द्रमभितुष्टाव स्वप्नान्त इति नः श्रुतिः ॥ १४ ॥ अभवत्स हि देवानां पुरोधाः प्रियकाम्यया | असुराणां स्वसुः पुत्रम् त्रिशिरा विश्वरूपधृक् ॥१४९॥ तमृषिं प्रहितं विन्द्रो देवेषु बुबुधेऽसुरैः । सोऽस्य वज्रेण तान्याशु शिरांसि चीण्ययाछिदत् ॥ १५० ॥ तस्य यत्सोमपानं तु मुखं सोऽभूत्कपिञ्चलः | कलविङ्कः सुरापाणम् अन्नादं तित्तिरिस्वभूत् ॥ १५१ ॥ तं वागभ्यवदवासी ब्रह्मासि शतक्रतो । ३० ॥ [-RV. x. 14 प्रपन्नं हतवान्यस्माद् विश्वरूपं पराङ्मुखम् ॥१५२॥ तमभ्यसिञ्चत्सूक्तेन ऋषिराप इति स्वयम् । सिन्धुडीपोऽपनुत्त्यर्थं तस्याशीलस्य पाप्मनः ॥ १५३ ॥ मैथुनार्थंमभीप्सन्तीं प्रत्याचष्टे यमीं यमः । नदो चिदिति संवादो विवस्वत्सुतयोस्तयोः ॥१५४॥ वृषानेये हविधाने युजे वामच संस्तुते । परेयिवांसमित्यन स्तूयते मध्यमो यमः ॥१५५ ॥ अथवीणोऽथ भृगवोऽङ्गिरसः पितरः सह । षष्ठ्यां देवगणास्तत्र संस्तूयन्ते द्युभक्तयः ॥१५६॥ B पितृभिष्याङ्गिरोभिश्च संस्तुतो दृश्यते यमः । Bमन्त्रेषु बहुशः पादे विवस्वन्तं पिता हि सः ॥ १५७ ॥ Bसंस्कार्यप्रेतसंयुक्तैः पितृभि स्तूयते यमः | Bप्रेहि प्रेहीति तिसृषु प्रेताशिष उदाहृताः ॥१५८॥ B पितॄणां हि पतिर्देवो यमस्तस्मात्स सूक्तभाक् । ३१॥