पृष्ठम्:बृहद्देवता.djvu/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

79] —BRHADDEVATĀ vii. 11 [−RV. x. 18 सृष्ट्वा भर्तुः परोक्षं तु सरयू: सदृशीं स्त्रियम् । निक्षिप्य मिथुनं तस्याम् अश्वा भूत्वापचक्रमे ॥१॥ अविज्ञानाविवस्वांस्तु तस्यामजनयन्मनुम् । राजर्षिरभवत्सोऽपि विवस्वानिव तेजसा ॥ २ ॥ स विज्ञाय त्वपक्रान्तां सरयूमश्वरूपिणीम् । त्वाष्ट्रीं प्रति जगामाशु वाजी भूला सलक्षणः ॥ ३॥ सरयूश्च विवस्वन्तं विदित्वा हयरूपिणम् | मैथुनायोपचक्राम तां च तचारुरोह सः ॥४॥ ततस्तयोस्तु वेगेन शुक्रं तदपतद्भुवि । उपाजिप्रञ्च सा वश्या तच्छुक्रं गर्भकाम्यया ॥५॥ आघ्रातमाचाच्छुक्रातु कुमारौ संबभूवतुः । नासत्यश्चैव दस यौ स्तुतावश्विमाविति ॥ ६ ॥ इतिहासमिमं यास्कः सरण्यूदेवते हृचे । विवस्वत लष्टुश्च त्वष्टेति सह मन्यते ॥ ७ ॥ पूषेति पादौ पौष्णौ डाव् आग्नेयावुत्तरौ तु यौ । स्यात्तृतीयोऽपि वा पौष्णस् तिसच्चान्याः परास्तु याः ॥ ॥ अपां स्तुतिस्त्वगत्रैका तृचात्सारस्वतात्परा | स्तुतः परोक्षः सोमस्तु द्रप्स इत्युत्तरे तृचे ॥९॥ अब्देवताशीवादी वा पयस्वत्युत्तरा तु या । चतस्रस्ता स्तुतिर्मृत्योर् अन्ये क्लृप्ताश्च कर्मणि ॥१०॥ Bमृतशिष्टेभ्य आशास्ते इमे ज्योग्जीवनं पुनः । Bइमं जीवेभ्य आशास्ते तेभ्यः परिधिकर्मणि ॥११॥ १॥ २॥