पृष्ठम्:बृहद्देवता.djvu/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

81] —BRHADDEVATĀ vii. 36 यथा चरति भूतेषु यथा वर्षति पाति च । सूक्ते तदस्मिन्नष्टाभिर् ऋग्भिरुक्तमभूर्विति ॥२४॥ सप्तेति मरुत स्तौति स्तौति वजमृगुत्तरा । अग्निमिन्द्रं च सोमं च पीवानं मेषमर्चति ॥२५॥ पूर्वोऽर्धर्चोऽपरस्तस्याः पर्जन्यं वायुना सह । वि क्रोशनास इत्यग्निम् उत्तरा सूर्यमेव तु ॥२६॥ एतौ मेऽयं य इत्येते स्तुतिश्चैवेन्द्रवज्जयोः । वृक्षेवृक्षे धनुश्चैन्द्रं देवानामिति तु चयः ॥ २७ ॥ शीतोष्णवर्षदातारः पर्जन्यानिलभास्कराः । अन्त्ये सूर्यानिलौ चोभौ स्तूयेते च पदे सह ॥ २ ॥ सा ते जीवातुरित्यस्याम् इन्द्रो वा सूर्य एव वा । विश्वो ह्यन्यस्तु संवाद ऋषेः शक्रस्य चैव हि ॥२९॥ युग्माः शक्रस्य विज्ञेया वसुक्रस्येतरा ऋचः । B स्नुषेन्द्रस्यागतान्देवान् दृष्ट्वा शक्रमनागतम् ॥३०॥ Bयज्ञं परोक्षवत्प्राह श्वशुरो नागतो मम । Bयद्यागछेद भक्षयेत्स धानाः सोमं पिबेदपि ॥३१॥ Bइति तस्या वचः श्रुत्वा तत्क्षणात्य वज्जधृक् । B तिष्ठन्वेद्यामुत्तरस्याम् उच्चैराह स रोरुवत् ॥ ३२ ॥ तृतीयया चतुर्थी च प्र देवचेत्यपां स्तुतौ । अपांनपादित्यनेन नाम्नाग्निर्मध्यम स्तुतः ॥३३॥ एति यद्वैश्वदेवं तु तस्य प्रेत्येन्द्रमुत्तरम् । वैश्वदेवी प्र मेत्येका सं मेत्यैन्द्रो हृचः परः ॥३४॥ कुरुश्रवणमर्चतः परे हे त्रासदस्यवम् । मृते मित्रातिथौ राज्ञि तन्नपातमृषिः परैः ॥३५॥ उपमश्रवसं यस्य चतुर्भिः स व्यशोकयत् । M [-RV. x. 33 ५॥ ६॥