[ - RV. x. 50 83] —BRHADDEVATĀ vii. 60 Bकाक्षीवत्यै च घोषायै न तस्यामाजुरोऽनया ॥४॥ प्राजापत्यासुरी त्वासीद् विकुण्ठा नाम नामतः । सेछन्तीन्द्रसमं पुत्रं तेपेऽथ सुमहत्तपः ॥४९॥ सा प्रजापतितः कामांल लेभेऽथ विविधान् वरान् । तस्यां चेन्द्रः स्वयं जज्ञे जिघांसुर्देत्यदानवान् ॥ ५० ॥ एकदा दानवैः सार्धं समरे समसज्यत । जघान तेषां नवतीर् नव सप्त च सप्तकान् ॥५१॥ भित्वा स्ववाहुवीर्येण हैमरौप्यायसीः पुरीः । हत्वा सर्वान् यथास्थानं पृथिव्यादिव्यवस्थितान् ॥ ५२ ॥ पृथिव्यां कालकेयांश्च पौलोमांश्चैव धन्विनः । तांच व्युत्सादयामास प्रह्लादतनयान्दिवि ॥ ५३ ॥ राज्यं प्राप्य स दैत्येषु स्वेन वीर्येण दर्पितः । देवान्बाधितुमारेभे मोहितोऽसुरमायया ॥ ५४॥ बाध्यमानास्तु तेनापि असुरेणामितौजसा | । उपाधावन्नृषिश्रेष्ठं तत्मबोधाय सप्तगुम् ॥५५॥ ऋषिस्तु सप्तगुनीम तस्यासीत्सुप्रियः सखा । स चैनमभितुष्टाव जगृभ्मेति करे स्पृशन् ॥५६॥ ततः स बुड्डा चात्मानं सप्तगुस्तुतिहर्षितः । आत्मानमेव तुष्टाव अहं भुवमिति त्रिभिः ॥ ५७॥ कीर्तयन्स्वानि कर्माणि यानि स्म कृतवान्पुरा । यथाकरोच्च वैदेहं व्यंसं सोमपतिं नृपम् ॥ ७ ॥ वसिष्ठशापादभवद् वैदेहो नृपतिः पुरा । इन्द्रप्रसादादीजे च सन्त्रैः सारस्वतादिभिः ॥ ५९॥ Bप्रभूतां शक्तिमत्तां च शत्रूणामप्यपाक्रियाम् । नृषु सर्वेषु चैश्वर्य प्रभुत्वं भुवनेषु च । १० ॥ ११॥ १२॥
पृष्ठम्:बृहद्देवता.djvu/११४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति