पृष्ठम्:बृहद्देवता.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 71–] BRHADDEVATĀ vii. 109 - तज्ज्ञानमभितुष्टाव सूक्तेनाथ बृहस्पतिः ॥१०९ ॥ जीवनार्थ प्रयोगस्तु मन्त्राणां प्रतिषिध्यते । वेदतत्त्वार्थविज्ञानं प्रायेणात्र हि दृश्यते ॥ ११० ॥ आचार्यः केचिदित्याहुर् अत्र वाग्विदुषां स्तवः | यथाभिर्निन्द्यतेऽचर्भिः सूक्तेऽन्याभिरनर्थवित् ॥ १११॥ यथैतामन्वविन्दन्त विद्वांसर्षिगतां सतीम् । यथा च व्यभजन् यज्ञे तदत्रोक्तं तृतीयया ॥ ११२॥ प्रशस्यते दशम्या तु विद्वानुत्तमया त्वचा | यज्ञे महर्त्विजामाह विनियोगं च कर्मणाम् ॥११३॥ परे तु स्तूयते दक्षो अष्टौ चैवादितेः सुताः । धातेन्द्रो वरुणो मित्रो अंशः सूर्योऽर्यमा भगः ॥११४॥ ऐन्द्रे जनिष्ठाः सूक्ते द्वे म स्वित्यत्र परं तु यत् । तत्र प्राच्यः प्रतीच्यश्च स्रवन्त्यो दक्षिणाश्च याः ॥११५॥ ताः सप्त सप्तकैर्वर्गैः संस्तूयन्ते प्रधानतः । याव्णामा वो मारुते वे अभ्रप्रुष इति स्मृते ॥ ११६॥ अपश्यमिति चाग्नेये य इमा वैश्वकर्मणे । मान्यवे यस्त इत्येते परं यत्तु मम व्रते ॥ ११७ ॥ तदाशीर्वादबहुलं स्तौति विश्वान्दिवौकसः । पराकदास आग्रेयं यदुदित्यष्टकं परम् ॥११॥ मैत्रावरुण्यृक् तत्रास्ति चतुर्थ्येन्द्राग्न्युपोत्तमा । सावित्री चैव सूर्या च सैव पत्नी विवस्वतः ॥ ११९ ॥ स्तुता वृषाकपायीति उषा इति च योच्यते । उषा एषा विधात्मानं विभज्य प्रति गोपतिम् ॥ १२० ॥ उषाः पुरोदयाद् भूत्वा सूर्य मध्यंदिने स्थिते । भूत्वा वृषाकपायी च दिनान्तेष्ववगछति ॥ १२१॥ [88 २३॥ २४ ॥