पृष्ठम्:बृहद्देवता.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

95] —BRHADDEVATĀ viii. 49 Bजामद समिद्धोऽद्य आप्रीसूक्तमतः परम् । युगपडे व्रजन्तं तं वैरूपा ऋषयस्त्रिभिः ॥३७॥ इन्द्रं प्रतिजगुः सूक्तैः पणोन्प्रति मनीषिणः | वैश्वदेवं परं सूक्तं घर्मेत्येकेऽत्र तु स्तुतान् ॥३७॥ देवानिन्द्रं च मन्यन्ते छन्दांस्यग्निं च मध्यमम् । आग्नेयं चित्र इत्येतज् जगादर्षिरुपस्तुतः ॥३९॥ पिबेन्द्रं स्तौति नेत्यन्नं राक्षोघ्नाग्नेयमुत्तरम् । इति वै लामैन्द्रं तद् आयाः षष्ठ्यां निपातिताः ॥४०॥ ८ ॥ प्राजापत्यमथाग्ने॒यं वैन्यमित्यनुपूर्वशः । [-RV. x. 137 वरुणेन्द्राग्निसोमानाम् इमं न इति संस्तवः ॥४१॥ चतस्रस्त्वत्र सूक्तादाव् अग्निरात्मस्तवं जगौ । स्तुतः सोमस्तु षष्ठ्या च नवम्या च पदैस्त्रिभिः ॥ ४२ ॥ वारुण्यस्त्वितरास्तिस्र ऐन्द्रमेवोत्तमं पदम् । अहं वाक्सूक्तमर्यम्णो मित्रस्य वरुणस्य च ॥४३॥ न तं राज्याः परं सूक्तं वैश्वदेवं ममेति यत् । नमस्ते वैद्युतं सूक्तम् आशीर्वादः परं तु यत् ॥४४॥ यां कल्पयन्ति नोऽरयः कृत्यानाशनमात्मनः । हिरण्यस्तुतिरायुष्यं नासद्यत्परमेष्ठिनः ॥ ४५ ॥ वदन्ति भाववृत्तं तद् यो यज्ञ इति चोत्तरम् । अपेन्द्रमत्र त्याश्विन्यौ चतुर्थी पञ्चमी स्मृते ॥४६॥ मैत्रावरुणमीजानं प्रथमायामृचि स्तुताः । अर्धर्चे द्यौश्च भूमिश्च अश्विनौ चोत्तरे ततः ॥४७॥ प्रो ष्वैन्द्रे वैश्वदेव्यृक् तु नकिर्देवा मिनीमसि | यस्मिन्वृक्ष इति त्वस्मिन् द्युस्थान स्तूयते यमः ॥४७॥ केण्यग्निं कॅशिनं सूक्तम् उत देवाः परं तु यत् । ९ ॥