पृष्ठम्:बृहद्देवता.djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

99] —BRHADDEVATĀ viii. 98 एत एव चयो देवा स्तुताः स्वल्पेष्वतोऽन्यथा । शान्यर्थं सूक्तमेतद्धि पावनं चैव वै श्रुतम् । Bयातमपि स्वस्त्ययने दृष्टं तदनुमन्त्रणम् ॥ ७ ॥ उलोऽस्तौत्पितरं वातं वात आनेयमुत्तरम् । विस्पष्टं जातवेदस्यं प्रेति दाशतयीषु तु ॥८॥ यत्किंचिदन्यत्राग्नेयं जातवेदस्यमुच्यते । [-RV. x. 191 आयं गौरिति यत्सूक्तं सार्पराज्ञी स्वयं जगौ ॥९॥ तस्मात्सा देवता तत्र सूर्यमेके प्रचक्षते । मुद्गलः शाकपूर्णिश्च आचार्यः शाकटायनः ॥९०॥ त्रिस्थानाधिष्ठितां वाचं मन्यन्ते प्रत्यृचं स्तुताम् । भाववृत्तं परं सूक्तं ददशीथाघमर्षणः ॥९१ ॥ परं न विद्यते यस्माच् छान्यै वा पावनाय वा । यथाश्वमेधः ऋतुराट् सर्वरिप्रप्रणोदनः ॥९२ ॥ तथाघमर्षणं ब्रह्म सर्वरिप्रप्रणोदनम् । तदादीनीति यच्चातः संज्ञानं ज्ञानसंस्तवः ॥ ९३ ॥ चतुर्थ यत्तु नैर्हस्त्यं तत्सपत्ननिवर्हणम् । संसमित् प्राध्वराणां चेत्य् आग्नेय्यावेव ते स्मृते ॥ ९४ ॥ उशना वरुणश्वेन्द्रश् चाग्निश्च सविता स्तुताः । संज्ञाने प्रथमस्यां तु द्वितीयस्यामथाश्विनौ ॥९५ ॥ तृतीया चोत्तमे च हे आशिषोऽभिवदन्ति ताः । इन्द्रः पूषा सपनघ्ने द्वितीयस्यामृचि स्तुतौ ॥९६ ॥ देवानामितराः प्रोक्ता आशीर्वादपराश्च याः । संसं संज्ञानमित्येते परं संवननं विदुः ॥९७ ॥ महानाम्न्य ऋची गुह्यास् ता ऐन्द्र्यश्चैव यो वदेत् । सहस्रयुगपर्यन्तम् अँहब्राह्मं स रायते ॥ ९ ॥

  • १७॥
  • १९ ॥

२०॥