पृष्ठम्:बृहद्देवता.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

101] —BRHADDEVATĀ viüi. 123 [Conclusion रूपं वजस्य वाक्पूर्व स्वाहाकारोऽग्निदेवतः ॥१११॥ देवानां च पितॄणां च नमस्कारः स्वधैव च । कुष्टो मूर्धनि विज्ञेयस् तालव्यः प्रथमः स्वरः ॥११२॥ द्वितीयस्तु भ्रुवोर्मध्ये तृतीयः कर्णसंश्रितः । चतुर्थो नासिकाये स्याद् औरसो मन्द्र उच्यते । मन्द्रकर्षणसंयुक्तम् अतिस्वारं प्रशंसति ॥११३ ॥ वदन्ति देवताः क्रुष्टं मनुष्याः प्रथमं स्वरम् । द्वितीयं पशवः सर्वे गन्धवीप्सरसः स्वरम् ॥ ११४ ॥ अण्डजाः पक्षिणः सपीश् चतुर्थमुपभुञ्जते । मन्द्रं पिशाचा रक्षांसि असुराश्चोपभुञ्जते ॥११५॥ अतिस्वारस्तु सर्वस्य जङ्गमस्थावरस्य च | वैश्वदेवः स्वरः क्रुष्टो नित्यं यो मूर्ध्नि तिष्ठति ॥ ११६ ॥ तालव्यः प्रथमः साक्षां स्वर आदित्यदैवतः । स्वरो द्वितीयः साध्यानां भ्रुवोर्देशं समाश्रितः ॥ ११७ ॥ आश्विनस्तु तृतीयोऽच स्वरः कर्णो समाश्रितः । चतुर्थस्त्वच वायव्यो नासिक्यः स्वर उच्यते ॥११॥ पञ्चमस्तु स्वरः प्रोक्तश् चाक्षुषः सूर्यदेवतः | यस्तु सामस्वरः षष्ठः स सौम्यो मन्द्र उच्यते ॥ ११९ ॥ विकर्षेण तु मन्द्रस्य युक्तोऽतिस्वार्य उच्यते । स मैत्रावरुणो ज्ञेयो मन्द्रस्थानसमाहितः ॥ १२० ॥ सामस्वराणां सप्तानाम् एते देवा इहोदिताः । त्रयाणामितरेषां तु लोकाधिपतयस्त्रयः ॥ १२१॥ वाग्देवत्योऽथवाग्नेयः प्रस्तावश्चैव सामसु । उद्गीथोपद्रवान्द्रौ स्यातां वा वायुदेवतौ ॥१२२॥ सौर्य: स्यात्प्रतिहारोऽत्र निधनं वैश्वदेवतम् ।

२३ ॥ २४ ॥