BRHADDEVATĀ viii. 123–
हिंकारप्रणवाभ्यां तु पुरस्तादेव कीर्तनात् ॥१२३॥ इति व्यस्तसमस्तानां मन्त्राणामिह दैवतम् । देवताविदवेक्षेत प्रयोगे सर्वकर्मणाम् ॥१२४ ॥ सप्तर्षयो वसवश्चापि देवा अथवीणो भृगवः सोमसूर्यः । पथ्या स्वस्ती रोदसी चोक्तमन्त्रे कुहूर्गुङ्गुरदितिर्धेनुरघ्या ॥ १२ ॥ असुनीतिरिका चाथा विधातानुमतिर्ह * या | अङ्गिरोभिः सहैताः स्युर् उक्तमन्त्राश्च देवताः ॥ १२६॥ वैश्वानरो हि सुपर्णो विवस्वान् प्रजापतिद्यः सुधन्वा नगोः । अपांनपार्यमा वातजूतिर् इळस्पतिश्चापि रथस्पतिश्च ॥ १२७ ॥ ॠभवः पर्जन्यः पर्वता ग्राथ * दक्षो भगो देवपत्नीदिशश्च । आदित्या रुद्राः पितरोऽथ साध्या निपातिनो वैश्वदेवेषु सर्वे ॥१२७॥२६॥ अनुक्रान्ता देवताः सूक्तभाजो हविभाजश्चोभयथा निपातैः । अप्येवं स्यादुभयथान्यथा वा न प्रत्यक्षमनृषेरस्ति मन्त्रम् ॥ १२९ ॥ योगेन दाक्ष्येण दमेन बुझा बाहुश्रुत्येन तपसा नियोगैः । उपास्यास्ताः कृत्स्त्रशो देवता या ऋचो ह यो वेद स वेद देवान् । A यजूंषि यो वेद स वेद यज्ञान् सामानि यो वेदस वेद तत्त्वम् ॥१३०॥ मन्त्राणां देवताविद्यः प्रयुङ्गे कर्म कर्हिचित् । जुषन्ते देवतास्तस्य हविनदेवताविदः ॥१३१॥ अविज्ञानप्रदिष्टं हि हविनत दैवतम् । तस्मान्मनसि संन्यस्य देवतां जुहुयाइविः ॥ १३२ ॥ स्वाध्यायमपि योऽधीते मन्त्रदैवतविच्छुचिः । स सन्चसदिव स्वर्गे सन्त्रसद्भिरपीड्यते ॥१३३ ॥ A नियमोऽयं जपे होमे ऋषिश्छन्दोऽथ दैवतम् । A अन्यथा चेत्प्रयुञ्जानम् तत्फलाच्चाच हीयते ॥ १३४ ॥ Aऋषिछन्दो दैवतादि ज्ञानं यज्ञादिषु श्रुतम् । Conclusion]
[102 २५॥ २७॥