पृष्ठम्:बृहद्देवता.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[Conclusion 103] —BRHADDEVATĀ viii. 140 A तदाश्रित्य प्राणदृष्टिर् विहिताचेति गम्यताम् ॥१३५॥ A अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । A योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥ १३६ ॥ [A] [अर्थेप्सवः खल्वृषयश् छन्दोभिर्देवताः पुरा | A अभ्यधावत्रिति छन्दो मध्ये त्वाहुर्महर्षयः ॥१३७ ॥ Aऋषिं तु प्रथमं ब्रूयाच् छन्दस्तु तदनन्तरम् । A देवतामथ मन्त्राणां कर्मस्वेवमिति श्रुतिः ॥१३८॥ आधरं वाप्यनाधारं विविच्यात्मानमात्मनि । ईक्षमाणो ह्युभौ संधिम् ऋचो दैवतवित्पठेत् ॥ १३९॥ स ब्रह्मामृतमत्यन्तं योनिं सदसतोध्रुवम् । महच्चारणु च विश्वेशं विशति ज्योतिरुत्तमम् ॥ १४० ॥ विशति ज्योतिरुत्तमम् ॥ ॥ इति बृहद्देवतायामष्टमोऽध्यायः ॥ २८ ॥