पृष्ठम्:बृहद्देवता.djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अथ शौनकीयबृहदेवताप्रारम्भः ॥ मन्त्रदृग्भ्यो नमस्कृत्वा समाम्नायानुपूर्वशः । सूक्तर्गर्धर्चपादानाम् ऋग्भ्यो वक्ष्यामि दैवतम् ॥१॥ वेदितव्यं दैवतं हि मन्त्रे मन्त्रे प्रयत्नतः । दैवतज्ञो हि मन्त्राणां तदर्थमवगछति ॥२॥ तडितांस्तदभिप्रायान् ऋषीणां मन्त्रदृष्टिषु | विज्ञापयति विज्ञानं कर्माणि विविधानि च ॥ ३ ॥ न हि कश्चिदविज्ञाय याथातथ्येन दैवतम् | लौक्यानां वैदिकानां वा कर्मणां फलमश्नुते ॥४॥ प्रथमो भजते त्वासां वर्गोऽग्निमिह दैवतम् । हितीयो वायुमिन्द्रं वा तृतीयः सूर्यमेव च ॥५॥ अर्थमिछनृषिर्देवं यं यमाहायमस्त्विति । प्राधान्येन स्तुवन्भक्त्या मन्त्रस्तद्देव एव सः ॥६॥ स्तुतिस्तु नाम्म्रा रूपेण कर्मणा बान्धवेन च । स्वर्गयुर्धनपुत्राद्यैर् अर्थैराशीस्तु कथ्यते ॥७॥ स्तुत्याशिषौ तु यास्वृक्षु दृश्येतेऽल्पास्तु ता इह । ताभ्यश्चाल्पतरास्ताः स्युः स्वर्गो याभिस्तु याच्यते ॥ ८ ॥ स्तुवन्तं वेद सर्वोऽयम् अर्थयत्येष मामिति । स्तौतीत्यर्थ ब्रुवन्तं च सार्थ मामेष पश्यति ॥९॥ स्तुवह्निवी बुवद्भिवी ऋषिभिस्तत्त्वदर्शिभिः । भवत्युभयमेवोक्तम् उ॒भयं ह्यर्थतः समम् ॥१०॥ B १॥