पृष्ठम्:बृहद्देवता.djvu/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Introduction] BRHADDEVATĀ i… 11– प्रत्यक्षं देवतानाम यस्मिन्मन्त्रेऽभिधीयते । तामेव देवतां विद्यान मन्त्रे लक्षणसंपदा ॥ ११ ॥ तस्मात्तु देवतां नाम्म्रा मन्त्रे मन्त्रे प्रयोगवित् । बहुत्वमभिधानां च प्रयत्नेनोपलक्षयेत् ॥ १२ ॥ संपूर्णमृषिवाक्यं तु सूक्तमित्यभिधीयते । दृश्यन्ते देवता यस्मिन्न् एकस्मिन् बहुषु इयोः ॥१३॥ देवताषीर्थछन्दस्तो वैविध्यं च प्रजायते । ऋऋषिसूक्तं तु यावन्ति सूक्तान्येकस्य वै स्तुतिः ॥ १४ ॥ यन्ते तानि सर्वाणि ऋषेः सूक्तं हि तस्य तत् । यावदर्थसमाप्तिः स्याद् अर्थसूक्तं वदन्ति तत् ॥ १५ ॥ समानछन्दसो याः स्युस् तच्छन्दःसूक्तमुच्यते । वैविध्यमेवं सूक्तानाम् इह विद्याद्यथातथम् ॥१६॥ देवतानामधेयानि मन्त्रेषु चिविधानि तु । सूक्तभाञ्जयथवभीजि तथा नैपातिकानि तु ॥१७॥ सूक्तभाजि भजन्ते वै सूक्तान्यृग्भाजि वै ऋऋचः | मन्त्रेऽन्यदैवतेऽन्यानि निगद्यन्तेऽत्र कानिचित् ॥ १ ॥ सालोक्यात्साहचर्यादा तानि नैपातिकानि तु । तस्माइहुप्रकारेऽपि सूक्ते स्यात्सूक्तभागिनी ॥१९॥ देवता तद्यथा सूक्तम् अविशेष्यं प्रतीयते । भिन्ने सूक्ते वदेदेव देवतामिह लिङ्गतः ॥ २० ॥ तत्र तत्र यथावच्च मन्त्रान्कर्मसु योजयेत् । देवतायाः परिज्ञानात् तडि कर्म समृध्यते ॥ २१ ॥ आद्यन्तयोस्तु सूक्तानां प्रसङ्ग परिकीर्तनात् । स्तोतृभिर्देवता नाम्म्रा उपेक्षेतेह मन्त्रवित् ॥२२॥ तत्खत्वाहुः कतिभ्यस्तु कर्मभ्यो नाम जायते । [2 २॥ ३॥ ४॥