पृष्ठम्:बृहद्देवता.djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Introduction] BRHADDEVATĀi 86 – व्यवस्येन्मन्त्रमाग्नेयं लिङ्गैरमेश्च लक्षितम् । हविष्पङ्क्षिप्रधानैश्च नामाह्वानैश्च केवलैः ॥ ६ ॥ ऐन्द्रस्तु मन्त्रो वायव्यैर् लिङ्गैरेन्द्रैश्च लक्ष्यते । नामधेयैश्च वजस्य बलकृत्या बलेन च ॥७॥ सौर्यस्तु लिङ्गैः सूर्यस्य गुणैः सर्वेश्च तेजसैः । नामधेयैश्च चन्द्रस्य सूक्तं च भजतेऽत्र यैः ॥७॥ एतासां देवतानां तु नामधेयानुकीर्तनैः । यस्य यस्येह यावन्ति न व्यवस्यन्यतोऽन्यथा ॥ ९ ॥ अयं प्रयोगस्त्वेतेषां ज्योतिषां चिषु वर्तताम् । लोकेषु मन्त्रविविद्वान् प्रयोगे नावसीदति ॥९० ॥ नीयतेऽयं नृभिर्यस्मान् नयत्यस्मादसौ च तम् । तेनेमौ चक्रतुः कर्म सनामानौ पृथक् पृथक् ॥९१॥ यविद्यते हि जातः सञ् जातैर्यवान विद्यते । तेनेमौ तुल्यनामानौ उभौ लोकौ समानुतः ॥९२॥ विसृजन्वयमेतेषां भाजते व्योनि मध्यमः । निपातमात्रे कथ्यन्ते तथानेयानि कानिचित् ॥ ९३ ॥ अर्चिभिः केश्ययं त्वग्निर् विद्युद्भिश्चैव मध्यमः | असौ तु रश्मिभिः केशी तेनैनानाह केशिनः ॥ ९४ ॥ एतेषां तु पृथक्त्वेन त्रयाणां केशिनामिह | संलक्ष्यन्ते प्रक्रियासु चयः केशिन इत्युचि ॥९॥ न चैवैषां प्रसूतिर्वा विभूतिस्थानजन्म वा । निर्वक्तुं शक्यमेतैर्हि कृत्स्नं व्याप्तमिदं जगत् ॥९६॥ वैश्वानरं श्रितो समिर अग्निं वैश्वानरः श्रितः । अनयोजीत वेदास्तु तथैते जातवेदसी ॥९७ ॥ सालोक्याच्चैकजातत्वाद् व्याप्तिमत्त्वात्तु तेजसः ।