13] —BRHADDEVATĀ ii, 24 आदित्या: केशिसाध्याश्च सविता वसुभिर्मनुः । दध्यङथवी विश्वे च वाजिनो देवपत्नयः ॥ १२ ॥ असौ तृतीयं सवनं लोकः साम च रैवतम् । वैरूपं चैव वर्षाश्च शिशिरोऽथ ऋतुस्तथा ॥ १३ ॥ त्रयस्त्रिंशश्च य स्तोमः क्लृप्त्या सप्तदशश्च यः | छन्दश्च जगती नाम्ना तथातिछन्दसञ्च याः ॥ १४ ॥ पौरुषं चाहुरस्यैतत् सर्वमेव तु पौरुषम् । एतस्यैव तु विज्ञेया देवाः संस्तविकास्त्रयः ॥१५॥ चन्द्रमाश्चैव वायुश्च यं* च संवत्सरं विदुः । केचित्तु निर्वपन्यस्य सौर्यवैश्वानरं हविः ॥१६॥ सौर्यवैश्वानरीयं हि तत्सूक्तमिव दृश्यते । ऋगर्धर्वोऽथवा पादो वृचो वा यदि वा तृचः ॥ १७ ॥ अनेन तु प्रवादेन दृष्टा मूर्धन्वता स्तुतिः । सूर्यवैश्वानराग्नीनाम् ऐकात्म्यमिह दृश्यते ॥१७॥ हरणं तु रसस्यैतत् कर्मामुत्र च रश्मिभिः । येन नातिविजानन्ति सर्वभूतानि चक्षुषा ॥१९॥ विभागमिममेतेषां विभूतिस्थानसंभवम् । संयग्विजानन्मन्वेषु तं तु कर्मसु योजयेत् ॥ २० ॥ अध्यापयन्त्रधीयानो मन्त्रं चैवानुकीर्तयन् । स्थानं सालोक्यं सायुज्यम् एतेषामेव गछति ॥ २१ ॥ अस्तु यानि सूक्तानि पञ्च नामानि कारवः । षड्विंशतिस्तथेन्द्रस्य प्राहुः सूर्यस्य सप्त च ॥ २२ ॥ तेषां पृथनिर्वचनम् एकैकस्येह कर्मजम् । उच्यमानं यथान्यायं शृणुध्वमखिलं मया ॥२३॥ जातो यदये भूतानाम् अयणीरध्वरे च यत् । [Introduction ३॥ ४॥
पृष्ठम्:बृहद्देवता.djvu/४४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति