पृष्ठम्:बृहद्देवता.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

15] —BRHADDEVATĀ ii. 49 यदिमां प्रार्जयत्येकी रसेनाम्बरजेन गाम् । कालेऽचिरौर्वशश्चर्षी तेन पर्जन्यमाहतुः ॥३७॥ तर्पयत्येष यल्लोकाञ् जन्यो जनहितश्च यत् । परो जेता जनयिता यहाग्नेयस्ततो जगौ ॥३८॥ बृहन्तौ पाति यल्लोकाव् एष हौ मध्यमोत्तमौ । बृहता कर्मणा तेन बृहस्पतिरितीळितः ॥३९॥ ब्रह्म वाग् ब्रह्म सत्यं च ब्रह्म सर्वमिदं जगत् । पातारं ब्रह्मणस्तेन शौनहोत्र स्तुवञ्जगौ ॥ ४० ॥ अन्नं क्षितिभ्यो विदधद् यदुतुष्वविशत्क्षितौ । तेनैनमाह क्षेत्रस्य वामदेव स्तुवन्पतिम् ॥४१॥ मनसेमं तु यहृश्यं मध्यमं लोकमाश्रितम् | शंसत्सत्येन सत्ये वै स एष स्तुतवानृतम् ॥ ४२ ॥ रवेणान्तारसैः क्षिप्तै स्थितो व्योम्न्येष मायया । ऋतस्य लोक इत्येष पुनश्चैनं ततोऽब्रवीत् ॥४३॥ वास्तु प्रयचंल्लोकस्य मध्यमः स तु पाति यत् । तेन वास्तोष्पतिं प्राह चतुर्भिरिममौर्वशः ॥४४॥ वाचा वेदा ह्यधीयन्ते वाचा छन्दांसि तत्र ह । अथो वाक् सर्वमेवेदं तेन वाचस्पति स्तुतः ॥४५॥ न कुतश्चन यद्दीनो वृत्वा तिष्ठति मध्यमः । राहूगण ऋषिस्तेन प्राहेनं गोतमोऽदितिम् ॥४६॥ प्रजाभ्यस्त्वेष यच्छर्म कमिछन्मनसा सुखम् । हिरण्यगर्भस्तेनैनम् ऋषिरर्चब्रुवाच कम् ॥४७॥ इह प्रजाः प्रयन्स संगृहीत्वा प्रयाति च । ऋषिर्विवस्वतः पुत्रं तेनाहैनं यमो यमम् ॥४८॥ मित्रीकृत्य जना विश्वे यदिमं पर्युपासते । [Introduction ell ॥