पृष्ठम्:बृहद्देवता.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Introduction] BRHADDEVATÂ ii. 49– मित्र इत्याह तेनैनं विश्वामित्र स्तुवन्स्वयम् ॥४९॥ निदाघमासातिगमे यदृतेनावति क्षितिम् । विश्वस्य जनयन्कर्म विश्वकर्मेष तेन सः ॥ ५० ॥ सरांसि घृतवन्त्यस्य सन्ति लोकेषु यन्त्रिषु । सरस्वन्तमिति प्राह वाचं प्राहुः सरस्वतीम् ॥५१॥ प्राणभूतस्तु भूतेषु यह्वेनत्येषु तिष्ठति । _* तेनैनं वेनमाहर्षिर् वेनो नामेह भार्गवः ॥ ५२ ॥ ससृजे मासि मास्येनम् अभिमत्य तपोऽयजम् । तेनैनं मन्युरित्याह मन्युरेव तु तापसः ॥५३॥ यदन्तकाले भूतानाम् एक एव नयत्यसून् । तेनासुनीतिरुक्तोऽयं स्तुवता श्रुतबन्धुना ॥५४॥ निदाघमासातिगमे जन्म मध्ये भवत्यपाम् । नप्तारमाह तेनैनम् ऋषिगृत्समद स्तुवन् ॥ ५५॥ अपामवरगर्भोघम् आदधत्सोऽष्टमासिकम् । यत्क्रन्दत्यसकृन्मध्ये दधिक्रास्तेन कथ्यते ॥५६॥ मासेन संभृतं गर्भ नवमेनाथ मासिकम् । स्वयं ऋन्दन्दधात्युयी धातेत्यृग्भिः स गीयते ॥५७ ॥ स्तीर्णेऽन्तरिक्षे क्षियति यहा तूर्ण क्षरत्यसौ । अरिष्टनेमिस्तार्क्ष्यर्षिस् तार्क्ष्यं तेनैवमुक्तवान् ॥ ५ ॥ रुवन्थ्योम्ब्युदयं याति कृन्तचाविसृजन्नपः । पुरूरवसमाहनं स्ववाक्येनोरुवासिनी ॥ ५९ ॥ यत्तु प्रच्यावयन्नेति घोषेण महता मृतम् । तेन मृत्युमिमं सन्तं स्तौति मृत्युरिति स्वयम् ॥६०॥ नाम्म्रा संकुसुको नाम यमपुत्रो जघन्यजः । संवर्तयंस्तमः सूर्याद् उषसं च प्रवर्तयन् ॥६१॥

[16 १०॥ ११ ॥