17] —BRIIADDEVATA ii. 72 दिवाकरं प्रसौत्येकः सविता तेन कर्मणा । उदितो भासयंल्लोकान इमांश्चैष स्वरश्मिभिः । स्वयं वसिष्ठस्तेनैनम् ऋषिराह स्तुवन्भगम् ॥ ६२ ॥ पुष्यन् क्षितिं पोषयति प्रणुदन रश्मिभिस्तमः । तेनैनमस्तोत्पूषेति भरद्वाजस्तु पञ्चभिः ॥ ६३ ॥ त्रीणि भान्ति रजांस्यस्य यत्पदानि तु तेजसा । तेन मेधातिथिः प्राह विष्णुमेनं त्रिविक्रमम् ॥ ६४ ॥ कृत्वा सायं पृथग्याति भूतेभ्यस्तमसोऽत्यये । प्रकाशं किरणैः कुर्वस् तेनैनं केशिनं विदुः ॥६५॥ संप्रत्येकै कशस्त्वेनं यन्मन्यन्ते पृथङ्कराः । [Introduction विश्वे विश्वानरस्तेन कर्मणा स्तुतिषु स्तुतः ॥६६॥ वृषैष कपिलो भूत्वा यन्नाकमधिरोहति । वृषाकपिरसौ तेन विश्वस्मादिन्द्र उत्तरः | रश्मिभिः कम्पयन्त्रेति वृषा वर्षिष्ठ एव सः ॥ ६७ ॥ सायाहूकाले भूतानि स्वापयन्नस्तमेति यत् । वृषाकपिरितो वा स्याद् इति मन्त्रेषु दृश्यते ॥ ६८॥ त्रिषु धन्वेति हीन्द्रेण प्रयुक्तो वारिषाकपे । विष्णतेर्विशतेवी स्याद् वेवेष्टेयाप्तिकर्मणः । विष्णुर्निरुच्यते सूर्यः सर्वे सर्वान्तरश्च यः ॥ ६९ ॥ पञ्च षड्विंशतिश्चैव यानि नामानि सप्त च । सम्यगनीन्द्रसूर्याणां तान्युक्तानि यथाक्रमम् ॥७०॥ नैपातिकानां नाम्नां तु प्रागुक्तैनीमलक्षणैः । संपन्नानां पृथक्वेन परिसंख्या न विद्यते ॥७१॥ पार्थिवी मध्यमा दिव्या वागपि त्रिविधा तु या । तस्याः सूक्तानि नामानि यथास्थानं निबोधत ॥७२॥ D १२॥ १३॥ १४॥
पृष्ठम्:बृहद्देवता.djvu/४८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति