पृष्ठम्:बृहद्देवता.djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

21] —BRHADDEVATA ii. 122 विशेषवाचिनस्त्वन्ये सामान्ये स्थापिताः क्वचित् । हिमेनानिमिति मन्त्रे हिमशब्दो निदर्शनम् ॥ ११०॥ पदमेकं समादाय द्विधा कृत्वा निरुक्तवान् । पूरुषादः पदं यास्को वृक्षेवृक्ष इति त्वृचि ॥१११ ॥ अनेकं सत्तथा चान्यद् एकमेव निरुक्तवान् । अरुणीमा सकृन्मन्त्रे मासकृद्धिग्रहेण तु ॥११२॥ पदव्यवायेऽपि पदे एकीकृत्य निरुक्तवान् | गर्ने निधानमित्येते न जामय इति त्वृचि ॥११३॥ पदजातिरविज्ञाता त्वः पदेऽर्थः शितामनि । स्वरानवगमोऽधायि वने नेत्यृचि दर्शितः ॥११४॥ शुनः शेपं नराशंसं द्यावा नः पृथिवीति च । निरस्कृतेतिप्रभृतिष्व् अर्थदासीत्क्रमो यथा ॥११५॥ वर्णस्य वर्णयोर्लोपो बहूनां व्यञ्जनस्य च । अचाणीति कपिनीभा दनो यामीत्यघासु च ॥ ११६ ॥ अर्थात्पदं स्वाभिधेयं पदावाक्यार्थनिर्णयः । पदसंघातजं वाक्यं वर्णसंघातजं पदम् ॥ ११७ ॥ अर्थात्मकरणाल्लिङ्गाद् औचित्याद्देशकालतः । मन्त्रेष्वर्थविवेकः स्याद् इतरेष्विति च स्थितिः ॥ ११ ॥ इति नानान्वयोपायैर् नैरुक्ते यो यतेत सः । जिज्ञासुब्रह्मणो रूपम् अपि दुष्कृत्परं व्रजेत् ॥११९॥ यथेदमये नैवासीद् असदप्यथवापि सत् । जज्ञे यथेदं सर्वं तद् भाववृत्तं वदन्ति तु ॥ १२० ॥ भावप्रधानमाख्यातं षट्टिकारा भवन्ति ते । जन्मास्तित्वं परीणामो वृद्धिहीनं विनाशनम् ॥१२१॥ एतेषामेव षणां तु येऽन्ये भावविकारजाः । [Introduction २२॥ २३॥ २४॥