पृष्ठम्:बृहद्देवता.djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. i. 13-] BRHADDEVATĀ ii. 147– नराशंसस्तृतीयायां चतुर्थी स्तूयते विकः ॥ १४७ ॥ बर्हिरेव तु पञ्चम्यां द्वारो देव्यस्ततोऽन्यया । नक्तोषासा तु सप्तम्याम् अष्टम्यां संस्तुतौ सह ॥ १४८॥ दैव्याविति तु होतारौ नवम्यामृचि संस्तुताः । तिस्रो देव्यो दशम्यां तु ज्ञेयस्त्वष्टैव तु स्तुतः ॥ १४९ ॥ तु एकादश्यां तु सूक्तस्य स्तुतं विद्याइनस्पतिम् । डादश्यां तु स्तुता देवीर् विद्यात्स्वाहाकृतीरिति ॥ १५०॥ सूक्तेऽस्मिन्प्रत्यृचं यास्तु देवताः परिकीर्तिताः । ता एव सर्वस्वाप्रीषु द्वितीया तु विकल्पते ॥१५१॥ प्रैषैः सहाप्रीसूक्तानि तान्येकादश सन्ति च । यजूंषि प्रैषसूक्तं वा दशैतानीतराणि तु ॥१५२ ॥ सौत्रामणानि तु त्रीणि प्राजापत्याश्वमेधिके । पुरुषस्य तु यन्मेधे यजुःष्वेव तु तानि षट् ॥ १५३ ॥ अचैव प्रैषसूक्तं स्यान् न यजुःष्वाद्रियेत तत् । तेषां प्रैषगतं सूक्तं यच्च दीर्घतमा जगौ ॥१५४ ॥ मेधातिथौ यदुक्तं च त्रीण्येवोभवन्ति तु । ऋषौ गृत्समदे यच्च वाध्यश्वे च यदुच्यते ॥१५५ ॥ नराशंसवदत्रेश्च ददर्श च यदौर्वशः । तनूनपादगस्त्यश्च जमदग्निश्च यज्जगौ ॥१५६ ॥ विश्वामित्र ऋषिर्यच जगौ वै काश्यपोऽसितः । मेधातिथेॠचां यास्तु प्रोक्ता डादश देवताः ॥ १५७ ॥ संपद्यन्ते यथाग्निं ताः संपदं तां निबोधत । इध्मो यः सर्वमेवाग्निर् अयं हीध्मः समिध्यते । ध्मातेर्वैतत्कृतं रूपं मातो हीध्मः समिध्यते ॥१५८॥ मातो हीध्मः समिध्यते ॥ ॥ इति बृहद्देवतायां द्वितीयोऽध्यायः ॥ [24 ३०॥ ३१॥ ३२॥