पृष्ठम्:बृहद्देवता.djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. i. 15-] BRHADDEVATĀ iii. 37– मुख्यया विन्द्रमेवास्तौन मरुतस्तु द्वितीयया । तृतीयया तु त्वष्टारं चतुर्थ्या चाग्निमेव च ॥३७॥ पञ्चम्या तु पुनः शक्रं षठ्या देवावृतावृधौ । सप्तम्याद्याभिरग्निं च चतुर्भिर्द्रविणोदसम् ॥ ३८ ॥ आदेशाद्दैवतं ज्ञेयम् ऋमन्त्राणां न लिङ्गतः । न शक्यं लिङ्गतो ह्यासां ज्ञातुं तत्वेन दैवतम् ॥ ३९॥ एकादश्या तु नासत्यौ डादश्याग्निमिमं पुनः । पृथक्पृथक्स्तुतीदं तु सूक्तमाह रथीतरः ॥४०॥ बहुदैवे डिदैवे वा गुणैवी यत्र कर्मजैः । स्तूयते देवतैकैका विभक्तस्तुति तविदुः ॥४१॥ वैश्वदेवानि सूक्तानि चिविधानि भवन्ति तु । सूर्यसंस्तवसंयुक्तं विश्वलिङ्गं पृथक्स्तुति ॥ ४२ ॥ पृथक्स्तुतीति यत्प्रोक्तं तडिद्यावहुदैवतम् । विश्वलिङ्गं तु तद्यत्र विश्वैः स्वैः कर्मजैर्गुणैः ॥४३॥ विश्वानुद्दिश्य यद्देवान् स्तौति सूर्यमनेकधा | देवानेवाभिसंस्तौति तं प्राहुः सूर्यसंस्तवम् ॥४४॥ न तु भागस्य सूक्तादौ सूक्तेष्वेवौषसेषु वा । न सावित्रे इयामीति न सूर्यायां ऋतौ मखे ॥४५॥ न चैवैवं प्रवादेषु मन्त्रेष्वन्येषु केषुचित् । न च यत्र सजोषेति पदं वा स्यात्सजूरिति ॥४६॥ यस्मिन्प्रसङ्गादपि तु बहीनां परिकीर्तनम् । तु वैश्वदेवं तदप्याह स्थविरो लामकायनः ॥४७॥ असंस्तुतं स्तुतं वापि प्रदिष्टं दैवतं क्वचित् । मन्त्रैस्तदृषयोऽर्चन्ति तां तु बुध्येत शास्त्रवित् ॥४४॥ आदौ हि मध्ये चान्ते च पृथक्त्वेषु च कर्तृभिः | [28 Ell ell