पृष्ठम्:बृहद्देवता.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. i. 16-] BRHADDEVATĀ iii. 62- अयं हि द्रविणोदोऽग्निर् अयं दाता बलस्य हि । Bजायते च बलेनायं मथ्यत्यृषिभिरध्वरे ॥ ६२ ॥ Bहवींषि द्रविणं प्राहुर् हविषो यत्र जायते । Bदातारश्चर्त्विजस्तेषां द्रविणोदास्ततः स्वयम् ॥ ६३॥ Bऋषीणां पुत्र इत्येषां दृश्यते सहसो यहो । B मध्यमाद्दा यतो जज्ञे तस्माडा द्राविणोदसः ॥ ६४ ॥ A द्रविणोदोऽग्निरेवायं द्रविणोदास्तदोच्यते । A आग्नेयेष्वेव दृश्यन्ते प्रवादा द्रविणोदसः ॥६५॥ ऐन्द्रस्य नवकस्येह यदैन्द्रावरुणं परम् । तस्योत्तरं च सोमानं स्तूयते ब्रह्मणस्पतिः ॥६६॥ ऋग्भिः पञ्चभिराद्याभिस् तिसृभिः सदसस्पतिः । नराशंसोऽन्यया चर्चा सोमेन्द्रौ तु निपातितौ ॥ ६७ ॥ चतुर्थी सोम इन्द्रश्च पञ्चम्यां दक्षिणाधिका | प्रसङ्गादृषिणा प्रोक्ताः संबन्धा स्थानलोकयोः ॥ ६॥ प्राजापत्यं तथेन्द्रः स्याद् इति तस्येह नामनी । कथिते द्वे च षट् चान्यान्य् एषां चाद्यः प्रजापतिः ॥ ६९ ॥ Bशिष्टानि यानि नामानि तानि वक्ष्याम्यतः परम् । सत्पतिः कश्च कामश्च सदसस्पतिरेव च ॥ ७० ॥ इळस्पतिवाचस्पतिस् ततस्तु ब्रह्मणस्पतिः | तृतीयान्ये * तु सूक्तस्य प्रथमं पञ्चमं च यत् ॥७१॥ चतुर्भिरितरैस्वेनं न सूक्तं नाप्यृगश्नुते । सवण्येव तु सर्वसां देवतानां प्रजापतेः ॥ ७२ ॥ नामानि कथयन्येते सम्यग्भक्तिदिदृक्षवः । तदाहुर्नेतदेवं स्याद् अष्टानामेष हि स्मृतः ॥७३॥ तैरेव चास्य कल्यन्ते क्रतवश्च हवींषि च । [30 १३॥ १४॥